________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका वस्त्रैष०५ | उद्देशः १
॥३९२॥
अथ वस्त्रैषणाऽध्ययनम् । चतुर्थाध्ययनानन्तरं पञ्चममारभ्यते, अस्य चायमंभिसम्बन्धः-इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आह
पढमे गहणं बीए धरणं पगयं तु दव्ववत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ ३१५॥ । प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरत्नादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकारः-'पगयं तु दव्ववत्थेणं ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चाद्धेनाह–'एवमेव' इति वस्त्रवत्सात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से मि० अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्थं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वा
व' इति वस्त्रवसामादिगुणोपेतं सूत्र
॥३९२॥
वा पोत्तगंवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org