________________
आ. सू. ६३
इयांस्तु विशेषः - गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥
Jain Education International
अहावरा चउत्था पडिमा - से भिक्खू वा अहासंथडमेव संथारगं जाइजा, तंजहा— पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ४ ॥ ( सू० १०२ ) एतदपि सुगमं, केवलमस्यामयं विशेषः- यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किञ्च -
इच्चेयाणं चउन्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरंति ॥ ( सू० १०३ ) आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलयेद्, यस्मात्ते सर्वेऽपि जिना - | ज्ञामाश्रित्य समाधिना वर्त्तन्त इति । साम्प्रतं प्रातिहारक संस्तारकप्रत्यर्पणे विधिमाह -
से भिक्खू वा० अभिकंखिज्जा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव ससंताणयं तप० संथारगं नो पञ्चप्पिणिज्जा ॥ ( सू० १०४ )
स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतं जानीयात् तद्यथा - गृहको किलकाद्यण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ॥ किञ्च -
For Personal & Private Use Only
www.jainelibrary.org