________________
अध्ययनं १
श्रीआचाराङ्गवृत्तिः
उद्देशक:२
(शी०)
॥३०॥
AGRISOGOSIOSSARAR
ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ॥८१॥ यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः-शाल्याद्याः, तृणानि-दर्भादीनि, सेवालं-जलोपरि मलरूपं, पनक:-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम्-उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तदर्शयितुमाहइकस्स दुण्ह तिण्ह व संखिजाण व न पासि सका । दीसंति सरीराइं पुढविजियाणं असंखाणं ॥ ८२॥
स्पष्टा ॥ कथं पुनरिदमवगन्तव्यम् ?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धः अधिष्ठातरि प्रतीतिर्गवावादाविव इति, एतदर्शयितुमाह
एएहिँ सरीरेहिं पच्चक्खं ते परूविया हंति । सेसा आणागिज्झा चक्खुफासंन जं इंति ॥८॥ 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्षं साक्षात् 'प्ररूपिता' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह
उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्टविहोदयलेसा सन्नुस्सासे कसाया य ॥ ८४ ॥
तत्र पृथिवीकायादीनां स्त्यानाद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योग:-कायाख्य एक एव, औदारिकतन्मिश्रकार्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org