________________
मागारे तह य नगरे व एगया वासो।सुसाणे सुण्णगारे वा रुक्खमूले व एगया वासो ॥३॥ एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राइं दिवंपि जयमाणे अ
पमत्ते समाहिए झाइ ॥४॥ 'चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-वर्द्धमानस्वामीति, अयं च श्लोकश्चिरन्तनटीकाकारेण न व्याख्यातः, तत्र किं सुगमत्वादुताभावात् , सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ प्रश्नपतिवचनमाह-भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी | भवति तत्रैवानुज्ञाप्य स्थितवान्, तद्दर्शयति-आ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहं सभा नाम ग्रामनगरादीनां तद्वासिलोकास्थायिकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा' कदाचिद्वासो भगवतोऽथवा 'पलिय'न्ति कर्म तस्य स्थानं कर्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुञ्जेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति ॥ किं च-प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामानगराद्वा बहिः स्थानं तत्र, तथा आरा| मेऽगारं-गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः
Jain Education International
For Personal & Private Use Only
www.janelibrary.org