________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ ३०६ ॥
अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक् तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचिपृष्टः सन्नप्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति- पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः प्राणिविषये यत्नवानिति ॥ किं च - अध्वप्रतिपन्ने शिशिरे सति तद्देवदृष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति ॥ साम्प्रतमुपसजिहीर्षुराह - एष चर्याविधि - रनन्तरोक्तोऽनुक्रान्तः - अनुचीर्णः 'माहणेण'त्ति श्रीवर्द्धमानस्वामिना ' मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारम प्रतिज्ञेन - अनिदानेन 'भगवता' ऐश्वर्यादिगुणोपेतेन, 'एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद्, उपधानश्रुताध्ययनस्य प्रथमोदेशक इति ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया - वसत्या भाव्यमतस्तत्प्रतिपादनायाय मुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्यो| देशकस्यादि सूत्रम् -
Jain Education International
'चरियासणाई सिजाओ एगइयाओ जाओ बुइयाओ । आइक्ख ताइं सयणासणाई जाई सेवित्था से महावीरे ॥ १ ॥ आवेसणसभापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुञ्जसु एगया वासो ॥ २ ॥ आगन्तारे आरा
For Personal & Private Use Only
उपधा० ९
उद्देशकः १
॥ ३०६ ॥
Kainelibrary.org