SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ उपधा०९ श्रीआचा- राङ्गवृत्तिः (शी०) । उद्देशकः१ ACCARSACCOR ॥३०३॥ थितः' अवबद्धो 'मिथः' अन्योऽन्यं 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मिनवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथःकथाऽवबद्धान् मध्यस्थोऽद्राक्षीत् , एतान्यन्यानि चानुकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् ‘गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाता:-क्षत्रियास्तेषां पुत्रः-अपत्यं ज्ञातपुत्रः-वीरवर्द्धमानस्वामी स भगवान्नैसदुःखस्मरणाय गच्छति-पराक्रमत इति सम्बन्धः, यदिवा शरणंगृहं नात्र शरणमस्तीत्यशरणः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि-किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति?, स भगवानप्रव्रजितोऽपि प्रासुकाहारानुवासीत् , श्रूयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत् , ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो, यथा-भगवन्! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच-कियन्तं कालं पुनरत्र मया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविघाताय भवद्भिपस्थातव्यं, तैरपि यथाकथञ्चिदयं! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ ततो भगवांस्तद्वचनमनुवात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां | विज्ञाय तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा-अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व'मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वाला येन स तथा, RECRCCh ॥३०३॥ Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy