________________
ध्यानान्यतरोपेतः 'आयुःकालस्य' मृत्युकालस्य 'पारगः' पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विदध्याद, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्रामुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्दादिनोच्यतेतद्यथा-'प्रगृहीततरकं चेदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजा
नतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापीङ्गितमरणे यत्संलेखनातृणसंस्तारा-1 || दिकमभिहितं तत्सर्व वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह-अयं स' इति सोऽयम् 'अपरः' अन्यो
भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्य 'धम्मों' विशेषो 'ज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्ठाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखना च पूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः-आत्मवर्ज प्रतिचारम्-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने'ति
मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् , स्वयमेव चोद्वर्तनपरिवर्त्तनं कायिकायोगादिक 8|| विधत्ते ॥१२॥(सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह
हरिएसु न निवजिज्जा, थण्डिलं मुणिया सए । विओसिज्ज अणाहारो, पुटो तत्थs
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org