________________
अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं
नो संचाएमि अहिआसित्तए , एवं से कप्पेइ कडिबंधणं धारित्तए ॥ (सू० २२३) यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासाः 'पर्युषितः' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे |'तस्य' भिक्षोः 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शी महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् | विरूपरूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं-सोदुमिति, किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलजालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः 'से' तस्य 'कल्पते' युज्यते 'कटिबन्धन' चोलपट्टकं कर्तुं, स च विस्तरेण चतुरङ्गलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतत्न-18 तिपादयितुमाह
अदुवा तत्थ परकमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org