________________
| साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात् किं पुनर्यावत्कथिक भक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा - यद्यहमस्माद्रोगात् पञ्चषैरहोभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् - इङ्गितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च - "पच्चेक्खर आहारं चउब्विहं णियमओ गुरुसमीवे । इंगियदेसंमि तहा चिठ्ठपि हु नियमओ कुइ ॥ १ ॥ उब्वत्तइ परिअत्तर काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणचि ण अन्नजोगेण धितिबलिओ ॥ २ ॥” तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- 'तद्' इङ्गितमरणं सद्भयो हितं सत्यं, सुगतिगमनावि| संवादनात्सर्वज्ञोपदेशाच्च सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेषरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचा रातीर्णवतीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं' कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथं कथः, दुष्क| रानुष्ठानविधायी हि कथंकथी भवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ - समन्तादतीव इता - | ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा यदिवाऽतीताः - सामस्त्येनातिक्रान्ताः अर्थाः -
१ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे। इङ्गितदेशे तथा चेष्टामपि नियमतः करोति ॥ १ ॥ उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति । सर्वमिहात्मनैव नान्ययोगेन धृतिवलिकः ॥ २ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org