SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२८५॥ तु द्विधा-जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुखं' जलस्थलनिर्गम- विमो०८ प्रवेशं यथा भरुकच्छं तामलिप्ती वा, आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेश' यात्रासमागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमि | उद्देशकः६ त्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-संस्तारकाय प्रासुकानि दर्भवीरणादिकानि क्वचिद्रामादौ तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादायैकान्ते-गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तद्दर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन् , अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याये-अधस्तनोपरितनावश्यायविप्नुवर्जिते, तथाऽल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिगः-पिपी|लिकासन्तानकः पनको-भूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराप्कायाकृता मृत्तिका मर्केटसन्तानको-लूतातन्तु-द जालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् , किं कृत्वा?-तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमि च प्रत्युपेक्ष्य पूर्वो-18 भिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिश- ॥२८५॥ ब्दादन्यत्र वा समये 'इत्वर'मिति पादपोंपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy