________________
वलजातिस्मरणशतेषु क्रियाविशेषेषु प्रवत्तताए जाईमरणमोयणाप
संविदितमितिकृत्वा प्रत्यक्षात
गरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमपातं भवति, 'कर्म योगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिजानाति आत्मना सह या सन्मतिः स्वमतिर्वा-अवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कृश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्त्येति । अथ किमर्थमसौ || कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तत इत्याह
इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेडं (सू० ११) __ तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम् , तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासनवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गु-18 सारस्य तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थे क्रियासु प्रवर्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्ये ततो व्याध्यपनयनाथ स्नेहापानलावकपिशितभक्षणादिषु क्रियासु प्रवर्त्तते, तथाऽल्पस्य सुखस्य कृते अभि-12 मानग्रहाकुलितचेता बह्वारम्भपरिग्रहाद्बह्वशुभं कर्मादत्ते, उक्तं च-"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ १॥ पुष्ट्यर्थमन्नमिह यत्प्रणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तु भुते । यन्निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ॥ २॥ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु । विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरत्तु सौख्यम् ॥ ३ ॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्मा
Jain EducataloK
For Personal & Private Use Only
nelibrary.org