________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २५ ॥
जगति सन्मार्गः ॥ ११ ॥” यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम् - अविदितं कर्म क्रिया व्यापारो मनोवाक्कायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्म्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति ॥ ९ ॥ यद्येवं ततः किमित्यत आह
तत्थ खलु भगवता परिण्णा पवेइआ ( सू० १० )
'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति सा च द्विधा ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अमुमेवार्थ निर्युक्तिकृदाह
तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजत्तीए ॥ ६७ ॥ 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह- ' अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्त्तमानस्य कारितानुमत्योश्चोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन यो
Jain Education International
For Personal & Private Use Only
अध्ययनं १
उद्देशकः १
॥ २५ ॥
www.jainelibrary.org