________________
यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् विभर्ति, यदि पुनर्जीींर्णदेश्यानि जीर्णा| नीति जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो ग्रीष्मः प्रतिपन्नः अपगता शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत् परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्ण तत्तवरिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गो विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे | क्षेत्रकालपुरुषगुणाद्भवेच्छीतं ततः किं कर्त्तव्यमित्याह- अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत् - सान्तरमुत्तरं - प्रावरणीयं यस्य स तथा, क्वचित्मावृणोति क्वचित्पार्श्ववर्त्ति बिभर्त्ति, शीताशङ्कया नाद्यापि परित्यजति अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्यन्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः ॥ किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह
लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ ( सू० २१३ )
लघोर्भावो लाघवं लाघवं विद्यते यस्यासौ लाघविक (स्त) मात्मानमागमयन् - आपादयन् वस्त्रपरित्यागं कुर्यात्, शरी रोपकरणकर्म्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह - 'से' तस्य वस्त्रप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org