________________
अगणिकायं उज्जालित्तए वा (पज्जालित्तए वा ) कार्य आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उज्जालित्ता पजालित्ता कार्य आयाविज वा पयाविज्ज वा तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणावणाए तिमि ( सू० २१० ) ॥ ८-३ ॥
'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य - आसन्नतामेत्य गृहपतिः - ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलर सानुलि तदेहो मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनी सन्दोहपरिवृतो वातींभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधर्माः - विषया उत्- प्राबल्येन बाधन्ते ?, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह - अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽवि - ष्कृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाषे - आयुष्मन् ! गृहपते ! 'नो खलु' नैव ग्रामधर्म्मा मामुद्वाधन्ते यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्- सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे ?,
Jain Education Theronal
For Personal & Private Use Only
www.jainelibrary.org