________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२७३॥
से समणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिजा नो कुज्जा वे-
यावडियं परं आढायमाणे तिबेमि (सू० २०५) न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमितिकृत्वाऽऽहारादिकं न गृह्णीयात् , स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात् , नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यौँ । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह
धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा
वेयावडियं परं आढायमाणे ( स० २०६) तिबेमि॥८-२॥ __ 'धर्म' दानधर्म जानीत यूयं 'प्रवेदित' कथितं, केन-श्रीवर्द्धमानस्वामिना, किम्भूतेन?-'मतिमता' केवलिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञः-साधुरुधुक्तविहारी अपरस्मै-समनोज्ञाय चारित्रवते संविनाय साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्दा 'प्रदद्यात्' प्रयच्छेत् , तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यम्-अङ्गमर्दनादिकं कुर्यात् , नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परम्-अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात् , तदेवं गृहस्थादयः कुशीलादयस्त्याज्या इति दर्शितम् , अयं तु विशेषो-गृहस्थेभ्यो
॥२७३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org