SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ पहारेण सहसात् कारयत-आशु पञ्चत्वं नयत तथा विविधं परामृशत-नानापीडाकरणैर्बाधयत, तांश्चैवम्भूतान् ‘स्स न्' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पशैंः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसग्गैः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद् , अपि तु सति सामर्थ्य जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवा साधूनामाचारगोचरम्-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि पठितव्यानि, अपि च-"यस्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥१॥" किं सर्वस्य सर्व कथयेत् ?, नेति दर्शयति-तर्कयित्वा' पर्यालोच्य पुरुषं, तद्यथा-कोऽयं पुरुषः कञ्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशम्-अनन्यसदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकलः स्यात् कुष्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यथाभावे तु वाग्गुध्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेराचारगोचरस्य 'आनुपूा' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः?-आत्मगुप्तः सन् , सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह-'बुद्धैः' कल्प्याकल्प्यविधिज्ञैः 'एतत्' पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy