________________
योऽयं पुरि शयनात्पूर्णः सुखदुःखानां वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम् , उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कर्मानेनेत्यपरिज्ञातका , खलुरवधारणे, अपरिज्ञातकमैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद् , अपरिज्ञातात्मापरिज्ञा-14 तक्रियश्चेति, यश्चापरिज्ञातकर्मा स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ॥ ८॥ स यदाप्नोति तदर्शयति
अणेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ (सू०९) अनेक संकटविकटादिकं रूपं यासां तास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्दलैरसुमान् यासु ता यो-| नयः-प्राणिनामुत्सत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतिलक्षभेदेन, ते चामी चतुरशीतिर्लक्षा:-'पुढवीजलजलणमारुय एक्कक्के सत्त सत्त लक्खाओ । वण पत्तेय अणंते दस चोदस जोणिलक्खाओ॥ १ ॥ विगलिंदिएसु दो दो चउरो चउरो य णारयसुरेसुं । तिरिएसु हुंति चउरो चोद्दस लक्खा य|
१पृथ्वीजलज्वलनमारुतेषु एककस्मिन् सप्त सप्त लक्षाः । प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः॥१॥ विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतस्रश्च नारकसुरेषु । तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org