SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) विमो०८ उद्देशकः१ ॥२६१॥ | धइ" यदिवाणेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसणेहालियस्स कम्मपि जीवस्स ॥१॥" इ. त्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कर्मणः आस्रवनिरोधात् तपसाऽपूर्वकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायां वा योऽसौ। वियोग:-क्षयः स मोक्षो भवेदिति गाथार्थः ॥ अस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीथिकैः सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितं, साम्प्रतं जीववियोगोदेशेन मोक्षस्वरूपं दर्शयितुमाहजीवस्स अत्तजणिएहि चेव कम्मेहिं पुव्वबद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो ॥ २६२॥ जीवस्यासइख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनेव-मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन जनितानि-बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्मणा 'सर्वविवेकः' सर्वाभावरूपतया यो विश्लेषस्तस्य-जन्तोः 'अथे'त्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः ॥ उक्तो भावविमोक्षः, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्यं, तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह भत्तपरिन्ना इंगिणि पायवगमणं च होइ नायव्वं । जो मरइ चरिममरणं भावविमुक्खं वियाणाहि ॥२६३॥ भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् १ स्नेहस्रक्षितगात्रस्य रेणुलंगति यथाऽङ्गे । तथा रागद्वेषस्नेहार्द्रस्य कर्मापि जीवस्य ॥ १ ॥ ॥२६१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy