________________
SHISHISHI SSSHOSHISHIPAISAIAS
भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्व-| तश्च, तत्र देशतोऽविरतसम्यग्दृष्टिनामाद्यकषायचतुष्कक्षयोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयादेशविमुक्ततेत्यतः साधवो देशविमुक्ता, |भवस्थकेवलिनोऽपि भवोपग्राहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः॥ ननु बन्धपूर्वकत्वा-19 न्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाह
कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स । सो बंधो नायव्वो तस्स विओगो भवे मुक्खो ॥ २६१ ॥ कर्मद्रव्यैः' कर्मवर्गणाद्रव्यैः 'सम' सार्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैबंद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहणयोग्यत्वात् , कथं पुनरष्टप्रकारं कर्म बनातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्तं च-"केहं णं भंते ! जीवा अह कम्मपगडीओ बंधति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज कम्मं निअच्छन्ति, दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अढकम्मपगडीओ ब
१ अत्र कथमन्यथा ? इत्येवरूपा. २ कथं भदन्त ! जीवा अष्टकर्मप्रकृतीबध्नन्ति ?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म बध्नन्ति (उदयते), दर्शनमोहनीयस्य कर्मण उदोन मिथ्यात्वं बध्नन्ति (उदयते), मिथ्यावेन उदितेन एवं खलु जीवोऽष्टकर्मप्रकृतीर्बध्नाति.
"
बनातीति चेद्, उच्यते, मिथ्यात्वोदयादात, प...
dain Education International
For Personal & Private Use Only
www.jainelibrary.org