________________
अणुपुव्विविहारीणं भत्तपरिन्ना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्ठमए ॥ २५७ ॥
अत्राद्योदेशकेऽयमर्थाधिकारः, तद्यथा - असमनुज्ञानाम - समनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षः - परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १ । द्वितीये तु अकल्पिकस्य- आधाकर्म्मादेर्विमोक्षः - परित्यागः कार्यो, यदिवाऽऽधाकर्म्मणा कश्चिन्निमन्त्रयेत् ततः प्रतिषेधो विधेयः, (तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २ । तृतीये तूदेशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा - ग्राम धम्मै रुद्धाध्यमानस्य | शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्किते वा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३ । शेषेषु तूदेशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा - उपकरणशरीराणां विमोक्षः - परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थीदेशके स्वयमर्थाधिकारः, तद्यथा - वैहानसम् - उद्बन्धनं गार्द्धपृष्ठम् - अपरमांसादिहृदयन्यासाद्धृद्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यं ४ । पञ्चमके तु ग्लानता भक्तपरिज्ञा च बोद्धव्या ५। षष्ठे त्वेकत्वम् एकत्वभावना तथेङ्गितमरणं च बोद्धव्यं ६ । सप्तमकेषु प्रतिमाः - भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति ७ । अष्टमके त्वयमर्थाधिकारः, स्तद्यथा - अनुपूर्वविहारिणां - प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सर संलेखना क्रम संलिखितदेहानां भक्तपरिज्ञेङ्गित
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org