SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अवन्त्यादयः साधुविहरणयोग्याः अर्द्धषड्रिंशतिर्देशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षो मादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूषयन्तीति लूषका भवन्ति, 'लूष हिंसाया'मित्यस्मात् ल्युड्, ते 'सन्ति' विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलप्रतिकूलसद्भावाजनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा-हास्यात् १ प्रद्धेषाद् २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्र केलीकिलः कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात् , यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैर्बुढौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधायिषत १, प्रद्वेषेण यथा भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविषुभिस्सेचनमकारि २, विमर्शाकिमयं दृढधा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्व्यन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः १'पुरच्छिमेणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव मगहाओ एत्तए, दक्खिणेणं कप्पइ निग्गंधाण वा निग्गंथीण वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसओ, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खित्ते, नो कप्पइ इत्तो बाहिं'ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यईद्भिरक्तानि ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy