________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २५२ ॥
अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्म्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्म्मार्थी ? यतो 'बालः' अज्ञः कुतो बालो ?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमर्दवादाननुवदन्नैतद् ब्रूषे, तद्यथा - जहि प्राणिनोऽपरैरेवं घातयन् प्रतश्चापि समनुजानासि गौरवत्रि कानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तत्पिण्डतक्क तत्समक्षं ताननुवदसि कोऽत्र दोषो ?, न ह्यशरीरैर्द्धर्मः कर्त्तु पार्य्यते, अतो धर्माधारं शरीरं यत्नतः पालनीयमिति, उक्तं च - " शरीरं धर्म्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराज्जायते धर्म्मो, यथा बीजात्सदङ्कुरः ॥ १ ॥” इति किं चैवं ब्रवीषि त्वं, तद्यथा - 'घोरः ' भयानको धर्मः सर्वास्रवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति- 'एप' इत्यनन्तरोक्तोऽधर्म्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्णः कामभोगेषु, विविधं तर्दतीति वितर्दीहिंसकः 'तर्द हिंसायामित्यस्मात् कर्त्तरि पचाद्यच्, संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि त्वं मेधावी धर्म्म जानीया इति ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह
Jain Education International
किमणेण भो ! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे
For Personal & Private Use Only
धुता० ६ उद्देशकः४
॥ २५२ ॥
www.jainelibrary.org