________________
पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः - उत्पत्तिस्तां कल्पयन्ति किम्भूतास्ते इत्याह- अधः संयमस्थानेषु सम्भवन्तोवर्त्तमाना अविद्यया वाऽधो वर्त्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति - आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्जानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यो जानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति । नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह - 'उदासीनाः ' राग| द्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्तास्तान् स्खलित चोदनोद्यतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि ततोऽन्येषामुपदेक्ष्यसीति । यथा च परुषं वदन्ति तथा सूत्रेणैव दर्शयितुमाह - 'पलियंति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद् - एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्डादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति । किम्भूतैः ? -'अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह - 'तद्' वाच्यमवाच्यं वा 'तं' वा धर्मं श्रुतचा|रित्राख्यं 'मेधावी' मर्यादाव्यवस्थितो 'जानीयात्' सम्यक् परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो वालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह
Jain Education International
अहम्मट्ठी तुमंस नाम वाले आरंभट्टी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहइ णं अणाणाए, एस विसन्ने वियदे वियाहिए तिमि ( सू० १९२ )
For Personal & Private Use Only
www.jainelibrary.org