________________
अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहिया
सिज्जासि तिबेमि (सू० १८४ ) ॥ धूताध्ययने द्वितीयोदेशकः ॥६-२॥ त्यक्त्वा सवा परीषहकृतां विस्रोतसिका परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः?-सम्यग् इतं-गतं दर्शनं यस्य स समितदर्शनः, सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना "उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं च-आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येव
माह-धर्म एवैको मामकः अन्यत्तु सर्व पारक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया है धर्मोऽनुपाल्यत इत्यत आह–'एषः' अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च P-'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोषयन्' क्षपयन धर्म चतारेदिति, किं चापरं कुर्यादित्याह-आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण'
श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थ तपस्तद्वाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रह विशे
Jain Education interrara
For Personal & Private Use Only
anwinjanelibrary.org