SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ लोक०५ श्रीआचाराजवृत्तिः उद्देशक:५ (शी०) ॥२२५॥ रवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तदुःखापीदनाच्च किल्बिषानुषङ्गा, इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य |हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च-“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्सद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासी, एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह-'अञ्जु रिति ऋजुः प्रगुणः साधुरितियावत् , चशब्दोऽवधारणे, एतस्य-हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेव तत्सरिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह'तस्माद्' हन्यमानस्यात्मन इव महदुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरेघांतयेत् न च घ्नतोऽनुमन्येत, किं च-संवेदनम्-अनुभवनं अनु-पश्चात्संवेदनं केन?-आत्मना, यसरेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्-नाभिल ॥२२५॥ SSAX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy