________________
%AAAAARCANORAN
गति वा पश्यतेति । तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भ
वति ततः किमित्याह-'अत्रापि'असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानु६ष्ठानविधायी मा भूदिति यावत्, तथाहि-बालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्ति च-नित्यत्वाद
मूर्त्तत्वाच्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात् , एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् , उक्तं च-"न जायते न म्रियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति | शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभेद्योऽयमधिकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः॥२॥” इत्यादि ॥ अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह
तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मनसि, तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिचित्तव्वंति मन्नसि, जं उद्दवेयंति मनसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेय
णमप्पाणेणं जं हंतव्वं नाभिपत्थए (सू० १६४) योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरःपाणिपादपार्श्वपृष्ठोरूद
dain Education International
For Personal & Private Use Only
www.janelibrary.org