SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) लोक० ५ उद्देशकः५ ॥२२२॥ तिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं (सू० १६२) यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धदृष्टान्तसम्यग्हेत्वभावाच्च ज्ञाना-| वरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम्-अवितथं, 'निःशङ्क'मिति अहंदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशवं, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितं, कैः?-'जिन'तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति । किं यतेरपि विचिकित्सा स्यायेनेदमभिधीयते', संसारान्तर्वर्त्तिनो मोहोदयात्तत्किं? यन्न स्यादिति, तथा चागमः -“अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज कम्मं वेदेति?, हंता अत्थि, कहन्नं समणावि णिग्गंथा कंखामोहणिज कम्मं वेयंति?, गोअमा! १ अस्ति भदन्त । श्रमणा अपि निर्ग्रन्थाः काहामोहनीयं कर्म वेदयन्ति ?, हन्त अस्ति, कथं श्रमणा अपि निर्ग्रन्थाः काढामोहनीयं कर्म वेदयन्ति !, गौतम ! | तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शकिताः काजिता विचिकित्सासमापना भेदसमापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम! श्रमणा अपि निग्रन्थाः काहामोहनीयं || कर्म वेदयन्ति, तत्रालम्बनं तदेव सत्यं निश्शकं यज्जिनैः प्रवेदितम् । अथ नूनं भदन्त ! एवं मनो धारयन् आज्ञाया आराधको भवति?, हन्त गौतम! एवं मनो धारयन् आज्ञाया आराधको भवति. ॥२२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy