________________
मलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति - को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः - प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्नेनात्मना नोपलभते 'समाधिं' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुषिन्तान्तःकरणो हि कथयतोऽप्याचार्यस्य स - म्यक्त्वाख्यां बोधिं नावाप्नोति । यश्चावाप्नोति स गृहस्थो वा स्याद्यतिर्वेति दर्शयितुमाह- 'सिताः' पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्ता वा 'एके' विचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाची नमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह- आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ?, असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्येते| त्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः - अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन् -अनवधारयन् कथं न निर्विद्येत ?, न निर्वेदं तपःसंयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्वि ष्णस्याचार्याः समाधिमाहुः - यथा - भोः साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतं, तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ॥ किं चायं विर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org