SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ लोक०५ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥२१३॥ वसद्भिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह-मुनिः' जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति । कथं च तद्धननमित्याह-प्रान्तं-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेक्न्ते' तदभ्यवहरन्ति, के ते?-वीराः कर्मविदारणसहिष्णवः, किंभूताः?-सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेकी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौघः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, वर्तमानसामीप्ये वा वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो ?-यः सावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परिसमाप्त इति॥ ASSASSISSISSES उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोष प्रदय विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् गामाणुगामं दूइजमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो (सू० १५६ ) ॥२१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy