SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ SISUSTUSASIASSAGE हन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि (सू० १५५) ॥ लोकसारे तृती योद्देशकः ॥ ५-३॥ वसु-द्रव्यं, स चात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्व सम्यगन्वागतं प्रज्ञानं पदार्थाविर्भाव यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणात्मना न सावद्यानुष्ठान विधायी स्यादिति भावार्थः । यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं, यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मनेर्भावो मौनं-संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः । एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः ?–'शिथिलैः' अल्पपरिणामतया मन्दवीयः संयमतपसोधृतिदृढिमरहितैरिति, किं च-आद्रैः-पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाीक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणाः-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः, तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च-अगारं-गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy