________________
श्रीआचारावृत्तिः (शी०)
॥२०१॥
धम्मं नाभिजाणइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविजाए पलिमु.
लोक०५ क्खमाहु आवमेव अणुपरियति तिबेमि (१४५)॥ लोकसारे प्रथमोद्देशकः ५-१॥ उद्देशका _ 'पासह'इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधाणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रिय-| विषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियविषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु । वा परिणीयमानान् प्राणिन इति । ते च विषयगृनव इन्द्रियवशगाः संसारार्णवे किमानुयुरित्याह-एत्थ फासे'इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह–'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीथिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति-'एएसु'इत्यादि, एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थं वर्तमानस्तीर्थिकः पावस्थादिवा 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेश-| मवाप्य सम्यक्त्वरत्नं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कम्र्मोदयात् सोऽपि सावद्यानुष्ठायी ॥ स्यादित्याह-'एत्थवि बाले'इत्यादि, 'अत्र' अस्मिन्नप्यहाणीतसंयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org