________________
वादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-“जे खलु विसए सेवई सेवित्ता वा णालोएइ, परेण वा पुढो निण्हवइ, अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जत्ति" सुगम । यद्येवं ततः किं कुर्यादित्याह-लद्धा हु' इत्यादि, लब्धानपि कामान् 'हुरत्थे'त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपार्क प्रत्युपेक्ष्य चित्ताद्वहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुब्व्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते -अभिलष्यन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्गं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपो-15 पलम्भात् समुपजनितजिनवचनसंमद इति । एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपच्चमाणे रमई पावेहि कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उठ्ठियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org