SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १९३ ॥ राणां मार्गे प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो - ग्राह्य आदेयवचनश्च व्याख्यात इति । कश्चैवम्भूत इत्याह - 'जे धुणाई' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कर्म्मोपचयं वा तपश्चरणादिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः ॥ उक्ता अप्रमत्ताः, तद्विध|र्मणस्तु प्रमत्तानभिधित्सुराह— नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्कंत संजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्तिबेमि ( सू० १३८ ) नयंत्यर्थदेशम् - अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि - चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः - यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोमृद्धः - आदीयते - सावद्यानुष्ठानेन स्वीक्रियत इत्यादानं कर्म संसारबीजभूतं तस्य स्रोतांसि - इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धःअध्युपपन्नः स्यात्, कोऽसौ ! - ' बालः ' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः। यश्चादानस्रोतोमृद्धः स किम्भूतः स्यादित्याह- 'अग्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम् - अष्टप्रकारं कर्म्म यस्य स तथा, किं च - 'अणभिकंत' इत्यादि, अनभिक्रान्तः - अनतिलङ्गितः संयोगो धनधान्य हिरण्य पुत्र कलत्रा दिकृतोऽसंयम संयोगो वा | येनासावनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्त्तमानस्यात्महितं मोक्षोपायं वाऽ Jain Education International For Personal & Private Use Only सम्य० ४ | उद्देशकः ३ ॥ १९३ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy