SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ विमना विगत तरकत्वाच्च यस्यासहितो ज्ञानादिन्येन संयमान तत?-उपशम-इन्द्रियनोइन्द्रियजयरूपं संयमं वा 'गत्वा' प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्रतिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीरः कर्मविदारणसमर्थः, । अविमनस्कत्वाच्च यत्स्यात्तदाह–'सारए' इत्यादि, सुष्वा-जीवनमर्यादया संयमानुष्ठाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा' सर्वकालं सकृदारोपितसंयमभारः संस्तत्र 'यतेत' यत्नवान् भवेदिति । किमर्थं पुनः पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह-'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह-'अणियदृ' इत्यादि, अनिवों-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तदर्शयति-विगिंच' इत्यादि, 'मांसं' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' |पृथक्कुरु, तद्रासं विधेहीतियावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स के गुणमवानुयादि-13|| त्याह-'एस' इत्यादि, 'एष' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कमरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिजे' इत्यादि, स वी dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy