________________
|
| विदितवेद्यः अस्त्रिहो भवति, स्निह्यते श्लिष्यतेऽष्टप्रकारेण कर्म्मणेति स्त्रिहो न स्निहोऽस्त्रिहः, यदिवा स्निह्यतीति स्निहोरागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्म्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षी पण्डितो भावरिपुभिरनिहतो, नान्यत्र, यश्चानिहतः स परमार्थतः कर्म्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यादित्याह - 'ए गमप्पाण' मित्यादि, सोऽनिहतो - स्निहो वा आत्मानमेकं धनधान्यहिरण्य पुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरकं, सम्भावनायां लिङ, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वभावनैवरूपा भावयितव्येति — “संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः ॥ १ ॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्म्मभिर्भ्रा - तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ २ ॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ३ ॥” तथा - एकः प्रकुरुते कर्म्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥ इत्यादि, किं च- 'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्म्मणेऽलमित्येवं पर्यालोच्य यच्छक्कोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति चेदाह - 'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्प्रमञ्जाति- शीघ्रं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org