________________
यदिवा पूर्व प्राश्निकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह-पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येक भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं 'भे' युष्माकं 'सातं' मनआह्वादकारि दुःखमुतासातं-मनःप्रतिकूलं?, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधा स्याद्, अथ चासातमित्येवं ब्रूयुः ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने, सम्भाव्यते एतद्भणनं-यथा न केवलं भवतां दुःखमसातं, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनोन हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् , तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे
खुडग पायसमासं धम्मकहंपि य अजंपमाणेणं । छन्नेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७॥ । अनया गाथया सङ्केपतः सर्व कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्केपस्तमजल्पता धर्मकथां च 'छन्नेन' प्रकटेन 'अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः। भावार्थस्तु कथानकादवसेयः, तच्चेदम्-चम्पायां नगर्या सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चाहदर्शनभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच, स च तूष्णीभावं भजमानो राज्ञोक्तः-धर्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्वाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org