SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सम्य०४ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः१ ॥१७५॥ प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादो-यथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थस्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सङ्केपवचनेन 'नियमनं भणितं' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं' तत्प्रतिपालनाय यावजीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराहनामंठवणासम्मं दव्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउविहो होइ ॥ २१७ ॥ अक्षरार्थः सुगमः, भावार्थ तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहअह दब्बसम्म इच्छाणुलोमियं तेसु तेसु दब्वेसुं। कयसंखयसंजुत्तो पउत्त जढ भिषण छिण्णं वा ॥२१८॥ 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, 'ऐच्छानुलोमिकं' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यतामाक्षुद्रव्येषु कृताधुपाधिभेदेन सप्तधा भवति, तद्यथा-कृतम्-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यकर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः ॥ १७५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy