________________
श्रीआचाराङ्गवृत्तिः (शी०)
शीतो०३ उद्देशका ४
सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं, अट्टमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कसहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणचुआणं देवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते उत नेत्याह___ एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्डी आणाए मेहावी लोगं च आणाए
अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नस्थि असत्थं परेण परं (सू० १२४) 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामकं क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकश्रेणियोग्यो भवतीत्याह–'सड्डी' इत्यादि, श्रद्धा-मोक्षमार्गाद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् 'आज्ञया' तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्य) नापर इति । किं च'लोगं च' इत्यादि, चः समुच्चये 'लोक' षड्डीवनिकायात्मकं कषायलोक वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्डीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताभयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहतुन कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामु
॥१७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org