SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ वन्ति, ततोऽपि पुण्यशेषतया कर्म्मभूम्यार्यक्षेत्र सुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण संयमेनोदिष्टविधिना 'परं' स्वर्ग पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन 'परं' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः 'परं' दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्म्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्म्मक्षपणोद्यता जीवितं कियद्गतं किं वा शेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च – “जे ईमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, गोयमा !, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, एवं दुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं | देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, १ य इमे अद्यतया श्रमणा निर्मन्था विहरन्ति, एते कस्य तेजोलेश्यां व्यतिव्रजन्ति ?, गौतम ! मासपर्यायः श्रमणो निर्मन्थो व्यन्तराणां देवानां तेजोलेश्यां व्यतिव्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानां त्रिमासपर्यांयोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः प्रगणनक्षत्रतारारूपाणां ज्योतिष्कानां देवानां पश्चमासपर्यायः चन्द्रसूर्य योज्योंतिष्केन्द्रयोज्यतीराजयोस्तेजोलेश्यां, पण्मासपर्यायः सौधर्मेशानानां देवानां सप्तमासपर्यायः सनत्कुमार माहेन्द्राणां देवानां अष्टमासपर्यायो ब्रह्मलोकलान्तकानां देवानां नवमासपर्यायो महा शुक्रसहस्राराणां देवानां दशमासपर्याय आनतप्राणतारणाच्युतानां देवानां एकादशमासपर्यायो ग्रैवेयकाणां द्वादशमासः श्रमणो निर्ब्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतित्रजति, ततः परं शुक्लः शुक्लाभिजातिर्भू (त्यो भू० )श्वा ततः पञ्चात्सिध्यति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy