SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ PERASAARISIRISHAHAR सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां-कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च-'जागर' इत्यादि, असंयमनिद्रापगमाजागतीति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो?—'वीरः' कर्मापन| यनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा दुःखाहुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमामुयादित्याह-जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नर' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्ग नाभिजानीते-नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न, तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च-"देवा णं भंते! सव्वे समवण्णा?, नो इणढे समढे, सेकेण तुणं भंते! एवं १ देवा भदन्त ! सर्वे समवर्णाः १, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त! एवमुच्यते?, गौतम! देवा द्विविधाः-पूर्वोत्पन्नकाश्च पश्चादुपपन्नकाश्च । तत्र ये | ते पूर्वोत्पन्नकास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः. dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy