________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥१५१॥
दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । शीतो० ३ येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति
उद्देशकः१ __ सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो । हुज समणो सया उज्जुओ य तवसंजमोवसमे ॥ २१०॥
शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत् , शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीषहकसायवेदशोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोद्युक्तश्च, व?-तपःसंयमोपशमे इति गाथार्थः॥18 साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिसीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाई। कामा न सेवियव्वा सीओसणिजस्स निजुत्ती ॥२११॥ __'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'भिक्षूणां' मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह-कामा' इत्यादि गाथार्द्ध सुगमं । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषवातविकलं सूत्रमुच्चारयितव्यं, तच्चेदम्
॥ १५१॥ सुत्ता अमुणी सया मुणिणो जागरंति (सू० १०५)
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org