________________
भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एप' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः ॥ साम्प्रतं सुखपद विवरणायाह
निव्वाणसुहं सायं सीईभूयं पयं अणाबाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उन्हं ॥ २०८ ॥
सुखं शीतमित्युक्तं तच्च समस्तद्वन्द्वो परमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नापरम्, एतच्च समस्त कर्मोपतापाभावाच्छीतमिति दर्शयति- 'निर्वाणसुख' मिति, निर्वाणम् - अशेषकर्म्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम्, अस्य चैकार्थिकानि - सातं शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सातं सुखं तदपि शीतं मनआल्हादाद्, एतद्विपयर्यस्तु दुःखं, तच्चोष्णमिति गाथार्थः ॥ कषायादिपदव्याचिख्यासयाह
ज्झइ तिव्वकसाओ सोगभिभूओ उन्नवेओ य । उण्हयरो होइ तवो कसायमाईवि जं डहइ ॥ २०९ ॥ 'दह्यते' परिपच्यते, कोऽसौ ? - 'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभ व्यापारोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्रात्यभावे काङ्क्षोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छा कामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः सर्वे वा मोहनीयमष्टप्रकारं वा कम्र्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org