SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ AGARLAR, 'शीत'मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति'रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं चल सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्व परीषहादि शीतमुष्णं च गाथाशकलेनाह-परीषहाः-पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेद' स्त्री नपुंसकवेदोदयः 'अरतिः' मोहनीयविपाकाच्चित्तदौःस्थ्यं 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीपहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थ तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह इत्थी सक्कारपरीसहो य दो भावसीयला एए । सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥२०३ ॥ स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ, भावमनोऽनुकूलत्वात् , शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टेजे तिव्वप्परिणामा परीसहा ते भवंति उपहा उ । जे मंदप्परिणामा परीसहा ते भवे सीया ॥२०४॥ दारं। तीव्रो-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, | इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुन dain Education International For Personal & Private Use Only Gramindainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy