________________
अथ तृतीयमध्ययनं शीतोष्णीयं ।
नन
उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथा शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीपहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आहपढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अणुहवंति २।तइए न हु दुक्खेणं अकरणयाए व समणुत्ति ३ ॥१९८॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ विउणो उ संजमो इत्थ मुक्खुत्ति ४॥ १९९ ॥ । प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यविवेकरहिताः, के?-असंयता:-गृहस्थास्तेषां च भावसुतानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-'जरामचुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च-'सहिए दुक्खमायाय
गदा नित्यादि १, रहस्थास्तेषां १९९
4-
dain Education International
For Personal & Private Use Only
www.janelibrary.org