________________
ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तकार्य वा अष्टप्रकारं कर्म तेन सार्द्ध संयोगमत्येति-अतिलयतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह-'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः' एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते-मोक्षप्रापकोऽभिधीयते सदुपदेशात् । स्यादेतत्-किंभूतोऽसावुपदेश इत्यत आह
जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इइ कम्म परिन्नाय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणण्णारामे से अणन्नदंसी, 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स
। कत्थइ, (सू० १०१) यदुःखं दुःखकारणं वा कर्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे 'मानवाना' जन्तूनां, ततः किं?-तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org