________________
ROCOCCRACRORRC
जेयो विदित्वा 'लोक' परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो?–'मतिमान् सदसद्विवेकज्ञः 'पराक्रमेथाः' संयमानुष्ठाने समुद्यच्छे, संयमानुष्ठानोद्योगं सम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात् , तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?-विशेषेणेरयति-प्रेयरति अष्टप्रकारं कर्मारिषड्वर्ग वेति वीरः-शक्तिमान् , स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गाय विदधाति । यत एवं ततः किमित्याह
सदे फासे अहियासमाणे निविंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ २॥ पंतं लूहं सेवंति वीरा संमत्तदंसिणो । एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए तिबेमि (सू० ९९)
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org