________________
प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः - संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवा कारणे कार्योपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्म्मणा वयः - अवस्थाविशेषस्तमे केन्द्रियादिकललार्बुदा दितदहर्जातबालादिव्याधिगृहीतदारिद्र्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षेण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीयन्ते इति दर्शयितुमाह - 'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्म्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा 'इमे' प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचारात्प्राणिनः 'प्रव्यथिताः' नानाप्रकारैर्व्यसनो पनि - पातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह - 'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमतां गृहस्थादिभिः परस्परतो वा कर्म्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुर्निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः-शारीरमानस दुःखोत्पादनं तस्मै नो कर्म्म कुर्याद्, येन प्राणिनां पीडोसद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह - 'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा- एतत्तत्त्वतः परिज्ञानं प्रकर्षेणोच्यते प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलर हितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह - 'कम्मोवसंती' त्ति कर्म्मणाम् - अशेषद्वन्द्ववातात्मक संसारत रुबीजभूतानामुपशान्तिः - उपशमः, कर्मक्षयः प्राणिनिकारक्रिया निवृत्तेर्भवतीत्युक्तं भवति । अस्य च | कर्म्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org