SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ HS श्रीआचाराङ्गवृत्तिः (शी०) ॥१४१॥ स्वन्यतरस्मिन् कल्पते-प्रभवति, पौनःपुन्येनोत्पद्यत इत्यर्थः, स्यात्-किमर्थमेवंविधं पापकं कर्म समारभते?, तदुच्यते 13 लोक.वि.२ 'सुहही लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थं लपति पुनः पुनर्वा * लपति लालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि-सुखार्थी मी उद्देशकः ६ सन् कृष्यादिकर्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमाग्निं धर्मापनोदार्थ वायुं आहाराथीं वनस्पति त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह-'सएण'इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्र्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च“दुःखद्विद सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥१॥" यदिवा 'मूढो हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति-हितमप्यहितबुद्ध्याऽधितिष्ठत्यहितं च हितबुद्ध्येति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्कं भवति-मोहोऽज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह-'सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन-मद्यादिना 'विविध मिति मद्यविष ॥१४१॥ |यकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण 'वय'मिति वयन्ति-पर्यटन्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy