________________
लोक.वि.२
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका ५
॥१३१॥
णेन तु पूतिगृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानाकिमर्थ भेदेनोपादानमिति !, सत्यम् , अशुद्धसामान्यागृह्यते, किं तु पूतिग्रहणेनेहाधाकर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानं, ततश्चायमर्थः-गन्धग्रहणेनाधाकर्म १ औद्देशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ श्चैते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकााभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्ध पूति वा भवति तत्सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानद-| र्शनचारित्राख्ये परिः-समन्ताद्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोव्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिषिषेधिषुराह
अदिस्समाणे कयविक्क्येसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने बालन्ने मायन्ने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने प
रिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे (सू०८८) क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः, कीदृक्षश्च तयोरदृश्यमानो भवति?, यतस्तयोनिमित्तभूतद्रव्याभावादकिञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः-अनपदिश्यमानः, कश्च तयोरनपदिश्यमानो भवति', यः क्रीतकृतापरि
॥१३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org