________________
STAIGAISAIRAUX
इत्यायः-चारित्राहः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपत्रं पश्यति । तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्केरलुगित्ययंसन्धिः-यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपत्ना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतो, यस्माद्यथाकालानुष्ठान विधायी तस्मादसावेव परमार्थ पश्यतीत्याह-'अदक्खु'त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति, पाठान्तरं वा 'अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति-यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थ ज्ञातवानिति, अथवा भावसन्धिः-ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य |च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह–'से णाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं 'नाददीत' न गृह्णीयानाप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालं सधूमं वा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वा न समनुजानीयादिति, आह-'सव्वामगंध' इत्यादि, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्व च तदामगन्धं च सर्वामगन्धं, सर्वशब्दःप्रकारकार्येऽत्र गृह्यते न द्रव्यकारूये, आमम्-अपरिशुद्धं, गन्धग्रह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org